Home Scriptures About Install App
Abhijnanashakuntalam • Chapter 7 • Shloka 21
(प्रकाशम्‌) न पुनरात्मगत्या मानुषाणामेष विषयः । तापसी- यथा भद्रमुखो भणति । अप्सरः सम्बन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता । राजा- (अपवार्य) हन्त, दितीयमिदमाशाजननम्‌ । (प्रकाशम्‌) अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ? तपसी- कस्तस्य धर्मदारपरित्यागिनो नाम सद्कीर्तयितुं चिन्तयिष्यति ? राजा- (स्वगतम्‌) इय खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि । अथवाऽ नार्यः परदारव्यवहारः । (प्रविश्य मृण्मयुरहस्ता) तापसी- सर्वदमन, शकुन्तलावण्यं प्रेक्षस्व । बालः- (सदृष्टिक्षेपम्‌) कुत्र वा पम माता ? उभे- नामसादृश्येन वञ्चितो मातृवत्सलः । द्वितीया-- वत्स, अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि । राजा-(आत्मगतम्‌) किं वा शकुन्तलेत्यस्य मातुराख्या । सन्ति पुनन मिधेयसादृश्यानि । अपि नाम मृगतृष्णिकेव नाममात्रप्रस्तावो मे विषादाय कल्यते । बालः- मातः, रोचते म एष भद्रमयूरः । प्रथमा-(विलोक्य । सोद्वेगम्‌) अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते । राजा--अलमावेगेन । नन्विदमस्य सिंहशावकविमर्द्‌ परिभ्रष्टम्‌ । (इत्यादातुमिच्छति) । उभे-- मा खल्वेतदवलम्ब्य । कर्थं गृहीतमनेन ? (इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः) राजा--किमर्थ प्रतिषिद्धाः स्मः ? प्रथमा-- शृणोतु महाराजः । एषाऽपराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता । एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति । राजा--अथ गृह्णाति ? प्रथमा- ततस्तं सर्पो भूत्वा दशति । राजा-- भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ? उभे--अनेकशः । राजा-- (सहर्षम्‌ । आत्मगतम्‌) कथमिव सम्पूर्णमपि मे मनोरथं नाभिनन्दामि ? (इति बालं परिष्वजते) । द्वितीया-- सुव्रते, एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः । (इति निष्क्रान्ते) बालः-- मुञ्च माम्‌ । यावन्मातुः सकाशं गमिष्यामि । राजा- पुत्रक, मया सहैव मातरमभिनन्दिष्यसि । बालकः-- मम खलु तातो दुष्यन्तः । न त्वम्‌ । राजा-- (सस्मितम्‌) एष विवाद एव प्रत्याययति । (ततः प्रविशत्येकवेणीधरा शकुन्तला) शकुन्तला-- विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न मे आशाऽऽसीदात्मनो भागधेयेषु । अथवा यथा सानुमत्माऽऽ ख्यातं तथा सम्भाव्यत एतत्‌ । राजा-(शकुन्तलां विलोक्य) अये, सेयभत्रभवती शकुन्तला । यैषा-- वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः । अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ।।
Read Full Scripture
Install the Krishjan app to read the complete Abhijnanashakuntalam with all chapters, verses, translations, and explanations. The app provides structured chapters, smooth navigation, and the ability to read scriptures offline.

All Chapters

Access all 18 chapters and every verse of the Abhijnanashakuntalam in one place.

Clear Translation

Understand each verse with clear Hindi and English translations.

Read Offline

Read scriptures anytime even without an internet connection.
Krishjan
Explore Dharma
Install App