विदूषकः-- तिष्ठ तावत् । अनेन दण्डकाष्ठेन कन्दर्पबाणं नाशयिष्यामि ।
राजा- (सस्मितम्) भवतु । दृष्टं ब्रह्मवर्चसम् । सखे, क्वोपविष्टः प्रियाया किञ्चिदनुकारिणीषु लतासु दृष्टिं विलोभयामि ।
विदूषकः- नन्वासन्नपरिचारिका चतुरिका भवता सन्दिष्टा । माधवीमण्डप इमां वेलामतिवाहयिष्ये । तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः ` शकुन्तलायाः प्रतिकृतिमानयेति ।
राजा--इदृशं हदयविनोदस्थानम् । तत्तमेव मार्गमादेशय ।
विदूषक--इत इतो भवान् ।
(उभौ परिक्रामतः । सानुमत्यमनुगच्छति)
विदूषकः--एष मणिशिलापडकसनाथो माधवीमण्डप उपहाररमणीयतया निः संशयं स्वागतेनेव नौ प्रतीच्छति । तत् प्रविश्य निषीदतु भवान् ।
(उभौ प्रवेशं कृत्वोपविष्टौ)
सानुमती-लतासंश्चिता द्रक्ष्यामि तावत् सख्याः प्रतिकृतिम् । ततोऽस्या भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि ।
राजा- सखे, सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् । कथितवानस्मि भवते च । स भवान् प्रत्यादेशवेलायां मत्समीपगतो नासीत् । पूर्वमपि न त्वया कदाचित् सङ्कीर्तितं तत्रभवत्या नाम । कञ्चिदहमिव विस्मृतवानसि त्वम् ।
विदूषकः- न विस्मरामि । किन्तु सर्व कथयित्वाऽ वसाने पुनस्त्वया हरिहासविजल्प एष न भूतार्थ इत्याख्यातम् । मयाऽपि मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु बलवती ।
सानुमती- एवमेवैतत् (एव्वं णेद) ।
राजा-(ध्यात्वा) सखे, त्रायस्व माम् ।
विदूषकः-- भोः किमेतत् ? अनुपपन्नं खल्वीदृशं त्वयि । कदापि सत्पुरुषाः शोकवास्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः ।
राजा-बयस्य, निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य बलवदशरणोऽस्मि । सा हि--
इतः प्रत्यादेशात् स्वजनमनुगन्तुं व्यवसिता स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे । पुनर्दृष्टिं बाष्यप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत् सविषमिव शल्यं दहति माम् ।।
Share Shloka
Read Full Scripture
Install the Krishjan app to read the complete Abhijnanashakuntalam with all chapters, verses, translations, and explanations. The app provides structured chapters, smooth navigation, and the ability to read scriptures offline.
All Chapters
Access all 18 chapters and every verse of the Abhijnanashakuntalam in one place.
Clear Translation
Understand each verse with clear Hindi and English translations.
Read Offline
Read scriptures anytime even without an internet connection.