सानुमती- सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलायाः ।
(प्रविश्य) चतुरिका जयतु जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं प्रस्थितास्मि ।
राजा--कि च?
चतुरिका-स मे हस्तादन्तरा तरलिकादितीयया देन्या बसुमत्याऽहमेवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः ।
विदृषकः--दिष््या त्वं मुक्ता ।
चतुरिका--यावद् देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति तावन्मया निर्वाहित आत्सा ।
राजा-- वयस्य, उपस्थिता देवी बहुमानगर्विता च । भवानिमां प्रतिकृतिं रक्षतु ।
लिदूषक्छः- आत्मानमिति भण । ( चित्रफलकमादायोत्थाय च) यदि भवानन्तःपुरकूटवागुरातो मोश्ष्यते तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दायय ।
सानुमती--अन्यसलङ्क्रान्तहदयोऽपि प्रथमसम्भावनामपेक्षते शिथिलसौहादं इदानीमेषः ।
(प्रविश्य पत्रहस्ता)
प्रतीहारी- जयतु जयतु देवः ।
राजा- वेत्रवति, न खल्वन्तरा दृष्टा त्वया देवी ।
प्रतीहारी--अथ किम् । पत्रहस्तां मां प्रक्षय प्रतिनिवृत्ता ।
राजा-- कार्यज्ञा कार्योपरोधं मे परिहरति ।
प्रतीहारी- देव, अमात्यो विज्ञापयति - अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तदेवः पत्रारूढं प्रत्यक्षीकरोतु - इति ।
राजा-इतः पत्रं ट्श्यि ।
(प्रतिहार्युपनयति)
राजा-(अनुवाच्य) कथम् ? समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः । अनपत्यःकिल तपस्वी । राजगामी तस्यार्थसञ्चय इत्येतदमात्येन लिखितम् । कष्टं खल्वनपत्यता । वेत्रवति, बहुधनत्वाद् बहुपत्नीकेन तत्रभवता भवितव्यम् । विचार्यतां यदि काचिदापन्नसत््वा तस्य भासि स्यात् ।
प्रतीहारी- देव, इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायाऽस्य श्रूयते ।
राजा- ननु गर्भः पित्र्यं रिक्थमर्हति । गच्छ । एवमीत्यं बृहि ।
प्रतीहारी-- यद् देव आज्ञावयति ।
राजा-- एहि तावत् ।
प्रतीहारो-- इयमस्मि ।
राजा-- किमनेन सन्ततिरस्ति नास्तीति ।
येन॒ येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना । स॒ स पापादृते तासां दुष्यन्त इति घुष्यताम् ।।
Share Shloka
Read Full Scripture
Install the Krishjan app to read the complete Abhijnanashakuntalam with all chapters, verses, translations, and explanations. The app provides structured chapters, smooth navigation, and the ability to read scriptures offline.
All Chapters
Access all 18 chapters and every verse of the Abhijnanashakuntalam in one place.
Clear Translation
Understand each verse with clear Hindi and English translations.
Read Offline
Read scriptures anytime even without an internet connection.