अपि च--
अन्तर्हिते शशिनि सैव कुमुद्रती मे दृष्टि च चन्दयति चखस्मरणीयशोभा । इष्टप्रवासजनितान्यवलाजनस्य । दुःखानि. नूनमतिमात्रसुदुः सहानि ।।
(प्रविश्यापटीक्चेपेण)
अनसुया-- यद्यपि नाम विषयपराङ्मुखस्य जनस्यैतन्न विदितं तथापि तेन रोज्ञा शकुन्तलायामनार्यमाचरितम् ।
शिष्य--यावदुपस्थिता होमवेलां गुरवे निवेदयामि । (इति निक्क्रान्तः) ।
अनसुया-प्रतिबुद्धाऽपि किं करिष्यामिं ? न मे उचितेष्वपि निजकराणीयेषु हस्तपादं । प्रसरति । काम इदानीं सकामो भवतु, येनासत्यसन्धे जने शुद्धहृदया सखी पदं कारिता । अथवा दुर्बसिसः शाप एष विकारयति । अन्यथा कथं स राजर्षिंस्तादशानि मन्रयित्वैतावतः कालस्य लेखमात्रमपि न विसृजति ! तदितोऽभिज्ञानमङ्लीयकं तस्य विसुजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् ? ननु सखीगामी दोष इति व्यवसिताऽ पि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्वां शकुन्तलां निवेदयितुम् । इत्थगतेऽस्माभिः कि करणीयम् ।
(प्रविर्य) प्रियवदा- (सहर्षम्) सखि, त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थानकौतुकं निर्वर्तयितुम् ।
अनसूया- सखि, कथमेतत् ?
प्रियवदा- शृणु । इदानीं सुखशयितप्रच्छिका शकुन्तलासकाशं गताऽस्मि ।
अनसूया-- ततस्ततः ।
प्रियवदा-- तावदेनां लज्जावनतमुखीं परिष्वज्य तातकाश्यपेनैवमभिनन्दितम् । दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । वत्से, सुशिष्यपरिदत्ता विद्येवाशोचनीयासि संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयामीति ।
अनसूया--अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः ।
प्रियवदा-अग्निशरणं प्रविष्टस्य शरीरं बिना छन्दोमथ्या वाण्या ।
अनसुया- (सविस्मयम्) कथमिव ?
प्रियवदा-(संस्कृतमाश्रित्य)
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः । अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ।।
Share Shloka
Read Full Scripture
Install the Krishjan app to read the complete Abhijnanashakuntalam with all chapters, verses, translations, and explanations. The app provides structured chapters, smooth navigation, and the ability to read scriptures offline.
All Chapters
Access all 18 chapters and every verse of the Abhijnanashakuntalam in one place.
Clear Translation
Understand each verse with clear Hindi and English translations.
Read Offline
Read scriptures anytime even without an internet connection.