Home Scriptures About Install App
Abhijnanashakuntalam • Chapter 4 • Shloka 2
प्रियवदा--हा धिक्‌, हा धिक्‌ । अप्रियमेव संवृत्तम्‌ । कस्मिन्नपि पुजार्हेऽपराद्धा शन्यहदया शकुन्तला । (पुरोऽवलोक्य) न खलु यस्मिन्‌ कस्मिन्नपि । एष दुवसिः सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुवरिया गत्या प्रतिनिवृत्तः । नसुया--कोऽन्यो हुतवहाद्‌ दग्धुं प्रभवति । गच्छ । पादयोः प्रणम्य निवर्तयैनं , यावंदहमर्घोदिकमुपकल्ययामि । प्रियंवदा-तथा (तह ।) (इति निच््रान्ता) । अनसूया- (पदान्तरे स्खलितं निरूप्य) अहो, आवेगस्खलितया गत्या प्रभर्टं ममाग्रहस्तात्‌ पुष्पभाजनम्‌ । (प्रविश्य) प्रियवदा-सखि, प्रकृतिवक्रः ख कस्यानुनयं प्रतिगृहणति । किमपि पुनः सानुक्रोशः कृतः । अनसूया- (सस्मितम्‌) तस्मिन्‌ बहेतदपि । कथय । प्रियवदा--यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया । भगवन्‌ प्रथम इतिं ्रक्ष्याविज्ञाततपः प्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षयितव्य इति । अनसूया--ततस्तत ? प्रियवदा-ततो न मे वचनमन्यथाभवितुमर्हति, किन्त्वभिज्ञानां भरणदश्निन शापो निवर्तिष्यत इति मन््रयमाण एवान्तर्हितः । अनसूया--शक्यमिदानीमाश्चसितुभ्‌ ।* अस्ति ` तेन राजर्षिणा सम्प्रस्थितेन ` स्वनामधेयाद्कितमङ्कलीयकं स्मरणीयमिति स्वयं पिनद्धम्‌ । तस्मिन्‌ स्वाधीनोपाया शकुन्तला भविष्यति । प्रियंवदा--सखि, एहि । देवकार्य तावद्‌ निर्वर्तयावः ।. (सहि,ˆएहि । देवकज्जं द व . णिव्वत्तेम्ह ।) (इति परिक्रामतः) प्रियंवदा-(विलोक्य) अनसुये, पश्यं तावत्‌. । वामहस्तोपहितवदनांऽऽ लिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं पुनरागन्तुकम्‌ । अनसूया-- प्रियंवदे, दयोरेव नौ मुख एष वृत्तान्तस्तिष्ठतु । र्सितव्या खलु प्रकृतिपेलवा प्रियसखी । प्रियवदा--को नामोष्णोदकेन नवमालिकां सिति । (इत्युभे निष्क्रान्ते) । । । विष्कम्भकः ।! (ततः प्रविशति सुप्तोत्थितः . शिष्यः) शिष्यः--वेलोपलक्षणार्थमादिषटोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि. कियदवशिष्टं रजन्या इति । (परिक्रम्यावलोक्य च) हन्त प्रभातम्‌ । तथाहि-- यात्येकतोऽस्वशिखर पतिरोषधीना- त माविष्कृतोऽरुणपुरसर एकतोऽर्कः । तेजोद्रयस्य. युगपदव्यसनोदयाभ्यां . . ` लोको नियग्यत . इवात्मदशान्तरेषु ॥
Read Full Scripture
Install the Krishjan app to read the complete Abhijnanashakuntalam with all chapters, verses, translations, and explanations. The app provides structured chapters, smooth navigation, and the ability to read scriptures offline.

All Chapters

Access all 18 chapters and every verse of the Abhijnanashakuntalam in one place.

Clear Translation

Understand each verse with clear Hindi and English translations.

Read Offline

Read scriptures anytime even without an internet connection.
Krishjan
Explore Dharma
Install App