Home Scriptures About Install App
Abhijnanashakuntalam • Chapter 3 • Shloka 16
अनसुया- इतः शिलातलैकदेशमलङ्करोतु वयस्यः । (राजोपविशति । शकुन्तला सलज्जा तिष्ठति) प्रियंवदा- द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहः पुनर्मा पुनरुक्तवादिनीं करोति । राजा-- भद्रे, नैतत्‌ परिहार्यम्‌ । विवक्षितं ह्यनुक्तमनुतापं जनयति । प्रियंवदा--आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यसित्येष वो धर्मः । राजा-- नास्मात्‌ परम्‌ । प्रियंवदा- तेन हीयमावयोः प्रियसखी त्वामुदिश्येदमवस्थान्तरं भगवता मदनेनारोपिता । तदुर्हस्यभ्युपपत्त्या जीवितमस्या अवलम्बितुम्‌ । राजा-- भद्रे, साधारणोऽयं प्रणयः । सर्वथाऽनुगृहीतोऽस्मि । शकुन्तला (प्रियंवदामवलोक्य) हला, किमन्तःपुरविरहपरयुतुकस्य राजर्षेरुपरोधेन । राजा-- इदमनन्यपरायणमन्यथा हदयसन्निहिते हदयं मम । यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ।। अनसुया-- वयस्य, बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रियसखी बन्धुजनशोचनीया न भक्ति तथा निर्वाहय । राजा-- भद्रे, कि बहुना । परिग्रहबहुत्वेऽपि दे प्रतिष्ठे कुलस्य मे। समुद्ररसना चोर्वी सखी च युवयोरियम्‌ ।।
Read Full Scripture
Install the Krishjan app to read the complete Abhijnanashakuntalam with all chapters, verses, translations, and explanations. The app provides structured chapters, smooth navigation, and the ability to read scriptures offline.

All Chapters

Access all 18 chapters and every verse of the Abhijnanashakuntalam in one place.

Clear Translation

Understand each verse with clear Hindi and English translations.

Read Offline

Read scriptures anytime even without an internet connection.
Krishjan
Explore Dharma
Install App